मुदाकरात्तमोदकं सदा विमुक्तिसाधकम्, कलाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकम्, नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरम्, नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्, महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरम्, दरेतरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम्, मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनम्, पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम्, कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्, अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम्, तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥









